________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२
दण्डविवेकः।
आवश्यकेषु च तृणादिषु राजरक्षितेषु तनिषिद्धेषु वा तदनुमत्यपेक्षा नत्वन्यचापौति द्रष्टव्यम् ।
मिताक्षराकारत्वाह,द्विजस्तृणाद्यन्तराभावे गवाग्निदेवतार्थं तृणकाष्ठकुसुमानि परपरिग्रहादप्याहरेत् । फलानि त्वपरिगृहीतानौति गौतमवचनात्। यत्त,तृणं वा यदि वा काष्ठं पुष्यं वा यदि वा फलम् । अनापच्छ्य हि गृह्णानो हस्तछेदनमर्हति ॥
इत्युक्तम् । तद्दिजव्यतिरिक्तविषयमनापदिषयं गवादिव्यतिरिक्तविषयं वेति । कात्यायनः,सहत्तानान्तु सर्वेषामपराधो यदा भवेत् ।
अवशेनैव दैवात्त तत्र दण्डं न कल्पयेत् ॥ सर्वेषां ब्राह्मणादौनामवशेन स्वस्येति शेषः । तेन भयादिपरवशतयेत्यर्थः । दैवात् प्रमादात् । तथा,परदेशाद्धृतं द्रव्यं वैदेशेन यदा भवेत् ।
गृहीत्वा तस्य तद्रव्यमदण्ड्यं तं विसर्जयेत् ॥ वैदेशेन देशान्तरादागतेन इति हलायुधः। तदेतदसाधारणनिमित्तकमपि सर्वजातिसाधारणमुक्तम् ।
१ क ख पुस्तकद्दये अनादृष्ट्वा ।।
For Private And Personal Use Only