________________
Shri Mahavir Jain Aradhana Kendra
३८
www.kobatirth.org
दण्ड़विवेकः ।
Acharya Shri Kailassagarsuri Gyanmandir
परिमाणतो यथा मनुः, -
धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिको दमः ।
तथा नारदः,
रत्नानाञ्चैव सर्व्वेषां शतादभ्यधिको बधः । विनियोगतो यथा कात्यायनः, -
वनस्पतीनां सर्व्वेषां विनियोगो यथा यथा । तथा तथा दमः कार्य्यो हिंसायामिति धारणा ॥ एवमन्यदपि वक्ष्यमाणदण्डदर्शनादूह्यम् । सेयं व्यवस्था अनेकविधा ।
तच —
वाधाऽपकर्षसाम्यानामुत्कर्षपरिनिष्ठयोः ।
भेदेन दण्डभेदानां व्यवस्था पञ्चलक्षणा ॥
इति संग्रहः ।
तत्र बाधश्च साधारणो यथा आपस्तम्बः,आचार्य्य ऋत्विक् स्नातको राजेति चाणं स्युरन्यत्र
वध्यात् ।
राजा अवान्तरनरपतौनामिति प्रतिभांति आचार्य्यादयो दण्ड्यानां चाणं स्यर्वध्यवज्र्ज्जमित्यर्थः ।
अत्र कल्पतरौ चाणं स्युस्त्रातारो भवेयुर्न कथञ्चित् दौः शौल्येन तिष्ठेयुरिति व्याख्यातम् ।
मनुः, -
क्षन्तव्यं प्रभुणा नित्यं क्षिपतां कार्य्यिणां नृणाम् । बालवृड्डातुराणाश्च कुर्व्वतां हितमात्मनः ॥
१ क पुस्तके ह्यधिकं बधः, ग पुस्तके अभ्यधिके बधः ।
For Private And Personal Use Only