________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्ड निमित्तेषु दण्डभेदव्यवस्था ।
अचैव मनुः,
अष्टापाद्यन्तु शूद्रस्य स्तेये भवति किल्विषम् । षोड़शैव तु वैश्यस्य हाविंशत्क्षत्रियस्य तु ॥ ब्राह्मणस्य चतुःषष्टिः पूर्ण वापि शतं भवेत् ।
द्विगुणा वा चतुःषष्टिस्तदोषगुणवेदिनः ॥ 'अत्र ज्ञानतारतम्याच्चतुःषष्ट्यादिदण्डविकल्पः ।
यत्तु ब्राह्मणस्य पक्षत्रयो निर्गुणगुणवदतिगुणापेक्षया व्यवस्थितमिति सर्वज्ञेन व्याख्यातं तत्रापि गुणो ज्ञानमेव अन्यथोपसंहारविरोधात् ।
यद्यपि ब्राह्मणदेः शूद्राद्यपेक्षया दण्डापकर्ष उचितो दृष्टश्च । तथापि निन्दितं जानतस्तत्करणमपराधगौरवमापादयति ज्ञानञ्च होनस्य कदाचिदवलप्यतेऽपि न तूत्तमस्येति तस्य तारतम्ये जातिरुपयुज्यते।
एतच्च तदोषगुणविदुष' इति रत्नाकरे पठित्वा स्पष्टीकृतं तदेतदुदाहरणमाकरे दृष्ट्वा लिखितं स्पष्टन्तूदाहरणान्तरम् । यथा कात्यायनः,
येन दोषेण शूद्रस्य दण्डो भवति धर्मतः । तेन विट्झचविप्राणां दिगुणो' दिगुणो भवेत् ॥ एवं द्रव्यतो यथा नारदः,सर्वेषामल्यमूल्यानां मूल्यात् पञ्चगुणो दमः ।
१ ग व्यथ ।
२ ख ग पक्षत्रयम् । ३ ख ग व्यवस्थितम् । ४ क- विद्भिरिति ।
५ ग पुस्तके दण्डानाम् ।
For Private And Personal Use Only