________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६
दण्डविवेकः।
अथ दण्डनिमित्तेषु दण्डभेदव्यवस्था।
जातिव्यं परिमाणं विनियोगः परिग्रहः । वयः शक्तिर्गणो देशः काला दोषश्च हेतवः ॥
इति व्यवस्थौपयिकवर्गसंग्रहः। अत्र परिग्रहो नृपदेवद्दिजादेः। वयो धृतस्य पुरुषादेाल्यादिः। शक्तिरपराधिनो वित्तसम्पत्त्यादिः। गुणोऽपि तस्यैव न्यूनाधिकदण्डप्रयोजकः। देशो ग्रामारण्यादिः। कालो दिवारात्यादिः। दोषोऽपराधविशेषः ।
स विविधः, अनुबन्धोऽननुबन्धश्च तत्रानुबन्धो नाम पुनः पुनरिच्छया मन्दक्रियाकरणं चकारात् प्रत्यासत्त्यादिसंग्रहः। त इमे सामान्यतो दण्डस्य लघुगुरुभावहेतवो भवन्ति । तथाहि जातितो विशेषो दृश्यते । यदाह विष्णः,
अष्टापाद्यं स्तयकिल्विषं शूद्रस्य द्विगुणोत्तराणौतरेषां प्रतिवणं विदुषोऽतिक्रमे दण्डभूयस्त्वम् ।
अष्टभिरापाद्यते गुण्यते इत्यष्टापाद्यमष्टगुणमित्यर्थः । किल्विषमिह दण्डस्तेन विदुषोऽतिक्रमे दण्डभूयस्वमित्युपसंहारे हेतुवन्निगदस्वरसाद्यस्मिन्नपहारे यो दण्ड उक्तः स विदच्छूद्रकर्तृके तस्मिन्नष्टगुण आपादनौयः। प्रतिवर्ण द्विगुणोत्तराणि उत्तरोत्तरं द्विगुणानि किल्विषाणौत्यर्थोऽन्वयः।
For Private And Personal Use Only