________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डनिमित्तानि ।
किञ्चामौ दुष्टबुद्धिपूर्वकत्वनियमादत्सर्गतो भ्रमादिमूलकेभ्योऽन्येभ्यो विशिष्यन्ते इति लोकोद्देजकत्वादेष्वेव प्राधान्येन दण्डपदप्रयोगः। अतएव मनुना,यस्य स्तेनः पुरे नास्ति नान्यस्त्रौगो न दृष्टवाक् ।
न साहसिक-दण्डनौ स राजा शकलोकभाक् ॥ इत्यत्र ऋणादानादिवादिनो न पठिता इति स्वस्थमेतत् ।
अथ मनुष्यमारणेन गवादिमारणमप्युपलक्ष्यते। परदारेत्यस्य स्वदारान्यस्त्रीमात्रे तात्पर्य कन्याभिगमनेऽपि दण्डाभिधानात्। मानुषीत्वञ्चाबातन्त्रं गवादिगमनेऽपि दण्डोपदेशात् । पारुष्यं कलहः, तस्य वाग्दण्डरूपकरणवैविध्यात् वाक्पारुष्यं दण्डपारुष्यमिति वैविध्यम् । पञ्चविधञ्चैतत् । यदाह वाग्दण्डपारुष्याधिकारे नारदः,
विधिः पञ्चविधस्वक्त एतयोरुभयोरपि । तत्र वाक्पारुष्यप्रकारा निष्ठुरत्वादयस्त्रयो वक्ष्यन्ते । दण्डपारुष्यं विविधमभिद्रोहाभिघातरूपत्वात् । यदाह स एव,
परगावेष्वभिद्रोहो हस्तपादायुधादिभिः । भस्मादिभिश्चाभिघातो दण्डपारुष्यमुच्यते ॥ तत्राभिद्रोहो हिंसा, अभिघातस्ताड़नम् ।
अत्र मिताक्षरायान्तु भस्मादिभिश्चोपघात इति पठितं व्याख्यातञ्च उपघातः संस्पर्शनरूपं मनोदःखोत्यादन
For Private And Personal Use Only