________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डविवेकः।
अथ दण्डनिमित्तानि। तच नारदः,मनुष्यमारणं स्तेयं परदाराभिमर्षणम् । हे पारुष्ये प्रकौर्णञ्च दण्डस्थानानि षड् विदः॥
इति संग्रहः । ननु विवादस्य लोभमोहादिमूलकत्वेन सर्वत्र सम्भवाहादिनोरेकतरस्य मिथ्याभियोगापहवयोरन्यतरनियमातन्निमित्तको दण्डोऽन्यत्राप्यस्ति चेत्, सत्यम्।।
किन्तु चरैरावेदितानां राज्ञा स्वपुरुषैाहितानां शिरोवादिनं विनापि विचार्यमाणानामपराधिनां येषु दण्डस्तेषामिहोद्देशः । ते च मनुष्यमारणादय एव न ऋणादानादयः। अतएवोक्तम्,साहसन्यायवानि कुर्युः कार्याणि ते नृणाम् । प्रकीर्णकः पुनर्जेयो व्यवहारो पाश्रयः ॥
इति अपि च ऋणादानादयो मनुष्यमारणादिवन्न स्वरूपेणापराधोऽपि त्वपहूवादिकमपेक्ष्येति तेभ्यो भेदः।
किञ्च मनुष्यमारणादिकर्तृणां दण्डार्थमाकारणं तदनुगुणतया त्वपराधविचारः। ऋणदानादिवादिनान्तु ग्रहणादितत्त्वनिर्णयार्थमाह्वानं तदिचारप्रसङ्गणापलापादिनिर्णयात् तत्कर्तुर्दण्ड इति।
For Private And Personal Use Only