________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
धनदण्ड़-संख्या ।
तथा,
--
Acharya Shri Kailassagarsuri Gyanmandir
er व्यवहारिक नैगमादिसंज्ञा ।
तत्र कात्यायनः,
नानापौर समूहस्तु नैगमः परिकीर्त्तितः । नानायुधभृतो व्राताः समेताः परिकीर्त्तिताः ॥ समूहो वणिगादीनां पूगः संपरिकीर्त्तितः । प्रव्रज्यावसिता ये तु पापण्डास्तु उदाहृताः ॥ ब्राह्मणानां समूहस्तु गणः संपरिकीर्त्तितः । शिल्पोपजीविनो ये ते शिल्पिनः परिकीर्त्तिताः ॥
तां सौगतादीनां समूहः सङ्घ उच्यते । चाण्डालश्वपचादौनां समूहो गुल्म उच्यते ॥
गण-पाषण्ड-पूगाश्च व्राताश्च श्रेणयस्तथा । समूहस्थाश्च ये चान्ये वर्गाख्यास्ते बृहस्पतिः ॥ नानायुधेति व्राताः प्रकीर्त्तिता इत्यन्वयः, गुल्म इति अत्र गुल्मः पदातिसमूह इति राजधम्मे लक्ष्मौधरः । तद्योगतामादायेति न विरोधः । अत्र श्रेणयो वणिक्समूह इति रत्नाकरः ।
१ क पुस्तके श्रेयः ।
३१
^^^^^^^^
चतुर्वर्णस्य या स्मृतिरसजातिसमुद्भवा ।
तस्या धर्म्मः समुद्दिष्टः साऽजातिः परिकीर्त्तिता ॥
'असजातिरसवर्णः ।
For Private And Personal Use Only