________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org |
Acharya Shri Kailassagarsuri Gyanmandir
दण्ड विवेकः ।
सा चेहापि ग्राह्या अविरोधात् "मांसभेदौ' तु पमिष्कान्” इति पारुष्यप्रकरणे मनूक्तदण्डसम्वादाच्च । सौवर्णस्य च निष्कस्य तत्राननुरूपत्वेनावाच्यत्वात् ।
यस्तु मांसभेदे तु मध्यम इत्यनुरूपो दण्डो बृहस्पतिनोक्तः, सोऽपि राजतेनैव निष्कण सम्वदति तस्य तावन्मूल्यकत्वात् । __ इह माषादौ वचनादेव व्यवस्था अन्यत्र तु स्मृतिशास्त्राऽभिधानशास्त्रयोर्विरोधे स्मृतिशास्त्रोक्तं ग्राह्यमन्तरङ्गत्वात्। तत्रापि यदुक्ता या संज्ञा तदुक्तदण्डादौ सैव ग्राह्या अन्तरङ्गतमत्वात् । अन्यत्राभिधानशास्त्रोक्तमेव ग्राह्यम् ।
पदार्थानिश्चयादनध्यवसाये तस्यैव निर्णायकत्वात् अभियुक्तस्मतित्वात्। तस्याभिधानकोषान्तरविरोधेऽपराधगौरवादिना दण्डगौरवाद्यनुसारिणी व्यवस्था याज्ञवल्क्योतपलव्यवस्थावदिति प्रतिभाति । अथ कात्यायनः,
कल्पितो यस्य यो दण्डस्त्वपराधस्य तत्त्वतः । रपणानां ग्रहणं तत् स्यात् तन्मूल्यं वाऽथ राजनि ॥ यस्यापराधस्य दण्डो दश पञ्चाशदित्यादिसंख्याविशेषो वा कथितस्तत्र संख्योक्ताकाङ्कायां पणो ग्राह्यः स च ताम्रकर्षमयौ मुद्रा तदलाभे तन्मल्यं ग्राह्यमित्यर्थः ।
यत्रापराधस्येत्यादि तृतीयमई रत्नाकरे पठितं तच्चिन्त्यं तदर्थविसम्वादात् तस्योत्तरार्द्धन चैकवाक्यतया वक्ष्यमाणत्वात् । धान्यादिमानन्तु धान्यापहारिदण्डे वक्ष्यते ।
१ ग पुस्तके मांसभेत्ता तु पमिष्कं ।
२ ग पलानां।
For Private And Personal Use Only