________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धनदण्ड-संख्या।
तथा,पणोदमानगण्डानां तुऱ्यांशेऽपि च काकिनी ।
इति रभसपालः। पणगण्डकयोस्तुर्य उदमाने च काकिनौ ।
इति रुद्रः। बृहस्पतिः,
ताम्रकर्षकता मुद्रा विज्ञेयः कार्षिकः पणः । स एव चान्द्रिकाः प्रोक्तास्ताश्चतस्वस्तु धानिकाः ॥
ता द्वादश सुवर्णस्तु दौनाराख्यः स एव तु । विष्णुगुप्तः,
सुवर्णसप्ततितमो भागो रोपक उच्यते । दौनारी रोपकैरष्टाविंशत्या परिकीर्तितः ॥ चतुर्वर्गचिन्तामणौ कात्यायनः,माषो विंशतिभागस्तु ज्ञेयः कार्षापणस्य तु ।
काकिनौ तु चतुर्भागो माषस्य च पणस्य च ॥ नारदः,
माषो विंशतिभागस्तु पणस्य परिकीर्तितः । पणस्तु षोड़शो भागो जेयः कार्षापणस्य तु ॥ काकिनौ तु चतुर्भागो माषस्य च पणस्य च ॥ पञ्चनद्याः प्रदेशेषु संज्ञेयं व्यवहारिको । कार्षापणप्रमाणन्तु तन्निबदमिहैव तु ॥
१ क पुस्तके - गञ्जानां ।
२ क पुस्तके चतुकाः ।
For Private And Personal Use Only