________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्ड विवेकः।
- रजतप्रकरणम्नानाविशेषात्। अतएवोक्तं प्रमाणत इति। रजताधिकारे विष्णुगुप्तः,
अष्टाशौतिगौरसर्षपा रूप्यमाषकस्ते षोड़श धरणं निष्को वा विंशतिर्वा रूप्यपलं तद्दश धरणकम् । स्मृतिः,
पञ्चसौवर्णिको निष्क इति। तथा,
साष्टं शतं सुवर्णानां निष्कमाहुर्मनीषिणः । अभिधानकोषे तु,
निष्कमस्त्री साष्टहेमशते दोनारकर्षयोः । रक्षोऽलङ्करणे हेमपलेऽपि चेत्युक्तम् । मनुः
कार्षापणस्तु विज्ञेयस्ताम्रिकः कार्षिकः पणः । कार्षापणः पण इति हे संज्ञे ताम्रकर्षस्येत्यर्थः, इति रत्नाकरः। अभिधानकोषे तु,
कार्षापणः कार्षिकः स्यात् कार्षिके ताम्रिके पणः । इत्युक्तम् ।
तन्मते सर्व एव कार्षिको मुद्राविशेषः कार्षापणः समाख्यासम्बादात्। स एव ताम्रिकः पण इत्यच्यते, इति गम्यते।
१ ग पुस्तके यथा ।
For Private And Personal Use Only