________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धनदण्ड-संख्या।
बालभूषणे चण्डेश्वरः,
कर्षः पलपादः स्यात् कांच तोलकः सोऽपि ।
उक्तो वसुभिर्मा के माषोऽपि गुञ्जाकैर्दशभिः ॥ पलमत्र वैद्यकप्रसिद्धमष्टतोलकमिति । याज्ञवल्क्यः,
पलं सुवर्णाश्चत्वारः पञ्च वा परिकीर्तितम् । मनुः,हे कृष्णले समते विज्ञेयो रूप्यमाषकः । ते षोड़श स्यावरणं पुराणश्चैव राजतम् ॥ धरणानि दश ज्ञेयः शतमानस्तु राजतः ।
चतुःसुवर्णिको निष्को विज्ञेयस्तु प्रमाणतः ॥ ते षोड़शमाषका राजतं धरणं राजतश्च पुराण इत्यर्थः। याज्ञवल्क्यः ,
दे कृष्णले रूप्यमाषो धरणं षोड़शैव ते। शतमानन्तु दशभिर्धरणैः पलमेव च ॥ निष्कं सुवर्णाश्चत्वारः .......। दशभिर्धरणैः शतमानं तदेव पलमित्युच्यते। निष्कमिते रजतप्रकरणे 'स्वर्णशब्दोपादानं हेमप्रकरणोक्तमानप्राप्त्यर्थं तेन हेमप्रमाणभूतचतुःसुवर्णमानोन्मितं रजतं निष्कमिति महार्णवाभिधाने निबन्धे व्याख्यातम् । एवञ्च चतुःसुवर्णिको निष्क इति मनुवचनमप्येवमेवोन्नेयम् ।
१ ग सुवर्ण -- ।
For Private And Personal Use Only