________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२७
दविवेकः ।
गुरुत्वमनियतमतो यथोक्तमेव कृष्णलं ग्राह्यम् । क्वचि - देकेतिपाठः । सेयं कृष्णलसंज्ञा सुवर्णरजतसाधारणौ ।
अगस्तिप्रोक्ते –
Acharya Shri Kailassagarsuri Gyanmandir
अष्टभिर्भवति व्यक्तैस्तण्डुला गौरसर्षपैः । स वैणवो यवः प्रोक्तो गोधूमं चापरे जगुः ॥
मनुः,
पश्चकृष्णलको माषस्ते सुवर्णस्तु षोडश । पलं सुवर्णाश्चत्वारः पलानि धरणं दश ॥ दशपलानि धरमित्यन्वयः ।
चतुर्थाध्याये माषाधिकारे विष्णुः, - तद्द्वादशकमक्षकमेव सचतुर्माषकं सुवर्णः । सचतुर्माषकं माषचतुष्टयसहितं षोड़शमाषात्मक
मित्यर्थः ।
अभिधानकोषे तु,—
गुञ्जाः पञ्चाद्यमाषकः ।
ते षोड़शाक्षः कर्षोऽस्त्रौ पलं कर्षचतुष्टयम् ॥
इत्युक्तम् ।
अन्ये त्वाहुः—
स्वष्टक्षेत्रे यथावन्मध्यपाककाले निष्यन्ना धान्यमाषा दश सुवर्णमाषः, पञ्च वा गुञ्जाः सुवर्णमाषाश्च षोडश सुवर्णः, स एव कर्षः चतुःकर्षः' पलं पलानां शतेन तुला, विंशत्या तुलाभिर्भारः ।
१ ख ७ पुस्तकये तच्चतुष्कं पलं ।
For Private And Personal Use Only