________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
धनदह संख्या ।
Acharya Shri Kailassagarsuri Gyanmandir
अथ मनु-विष्णु
पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः ।
मध्यमः पञ्च विज्ञेयः सहस्रन्त्वेव चोत्तमः ॥ याज्ञवल्क्यः,
साशीतिपणसाहस्रो दण्ड उत्तमसाहसः । तदर्द्धं मध्यमः प्रोक्तस्तदर्द्धमधमः स्मृतः ॥ यत्तु —
कार्षापणसहस्रन्तु दण्ड उत्तमसाहसः । इत्यादि बृहस्पतिवचनं, तत्र कार्षापणः पण एव दयोः पर्य्यायत्वात् । अत्र 'चतुर्विंशतिरित्यादौ सर्व्वच संख्येयाकाङ्क्षायां पणो द्रष्टव्यः, पणानामिति विष्णुवचनात् ।
२३
कल्पतरुकारादयश्च मनुवचनानुसारेणैव तच तच
साहसान् वक्ष्यन्ति ।
अथाच मानसंज्ञायां मनुः,
लोकसंव्यवहारार्थं याः संज्ञाः प्रथिता भुवि । ताम्ररूप्य सुवर्णानां ताः प्रवक्ष्याम्यशेषतः ॥ सर्षपाः षट् यवो मध्यस्त्रियवं त्वेव कृष्णलम् । लोकव्यवहारार्थं प्रवक्ष्यामीत्यर्थः । मध्यो नातिस्थूला
नातिकृश इत्यर्थः ।
१ क चतुर्विंशत्यादौ ।
ग घ ङ त्वेककृष्णलं ।
चियवन्त्वेवेति –
गुञ्जा तु स्यात् चिभिर्यवैः । इत्यगस्तिप्रोक्तदर्शनात् कृष्णलव्यवहाराणां गुञ्जानां
For Private And Personal Use Only