SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८ दण्डविवेकः । त्यत्तौ तात्पर्य्यमन्यकृतस्य पापस्यान्यच संक्रमानुपपत्तेः । एवमेव गोविन्दराजः । नारायणसर्व्वज्ञोऽप्येवमाह । पारिजातकृतोऽप्यचैव स्वरसः । एवमेव प्रदौपदीपिकादयः । श्रर्थवादमाचमेतदिति मेधातिथिः । कुल्लूकभट्टस्त्वत्र कर्त्तृपापमेव भागशः साक्ष्यादिषु सङ्क्रामति तथैव श्रवणात् न चाच प्रतिपक्षानुमानादिविरोधः, तस्योपजौव्येन शास्त्रेण वाधात् । सुकृतदुष्कृतयोः शास्त्रकप्रमाणकत्वेन प्रकृतेऽन्यच सङ्क्रमणयोग्ययोरेव तयोः कल्पनात् भगवता वादरायणेनाप्यस्यार्थस्योपगमादित्याह । तञ्चिन्त्यं शास्त्रस्यान्यथाप्युपपत्तौ उक्तार्थकल्पनानवकाशात् बहुविरोधात् । मनुः, - --- राजा भवत्यनेनास्तु मुच्यन्ते च सभासदः । एनो गच्छति कर्त्तारं निन्दार्हो यच निन्द्यते ॥ नारदः युक्तरूपं ब्रुवन् सभ्यो नाप्नुयाद्देष किल्विषौ । अन्टणस्त्वन्यथा सभ्यस्तदेवोभयमाप्नुयात् ॥ बृहस्पतिः— लोभद्देषादिकं त्यक्त्वा यः कुर्य्यात् कार्य्यनिर्णयम् । शास्त्रोदितेन विधिना तस्य यज्ञफलं भवेत् ॥ नारद-यम-कात्यायनाः, श्रुतिस्मृतिविरुद्धञ्च भूतानामहितच्च यत् । न तत् प्रवर्त्तयेद्राजा प्रवृत्तच्च निवर्त्तयेत् ॥ For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy