________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सभ्योपदेशः।
न्यायाऽपेतं यदन्येन राज्ञाऽज्ञानकृतं भवेत् । तदप्याम्नायविहिते पुनाये निवेशयेत् ॥ श्रुतिस्मृतिविरुद्धं प्रमाणविरुद्धं तेन प्रमाणविरोधेन विचारितमपि पुनर्विचारयेदिति प्रथमश्लोकार्थः ।
नृपान्तरेणाज्ञानात् कृतमपि शास्त्रविहितेन मार्गेण पुनर्निरूपयेदिति द्वितीयश्लोकार्थः । कात्यायनः,
अधर्माज्ञां यदा राजा प्रयुञ्जौत विवादिनाम् । विज्ञाप्य नृपति सभ्यस्तदा सम्यक् निवर्तयेत् ॥ सभ्येनावश्यवक्तव्यं धर्मार्थसहितं वचः । शृणोति यदि नो राजा स्यात्तु सभ्यस्ततोऽन्त्रणः ॥ न्यायमार्गादपेतं तु ज्ञात्वा चित्तं महौभुजः । वक्तव्यं तप्रियं तत्र न सभ्यः किल्विषो ततः ॥ अधर्माज्ञामधानुवर्तिनी माज्ञां, अन्तणः अनपराधः। तथा, तचैव
अधर्मतः प्रवृत्तन्तु नोपेक्षेरन् सभासदः । उपेक्षमाणाः सपा नरकं यान्त्यधोमुखाः ॥ सोऽयमसाधारणसभ्यदोषः, तदेवमनियुक्तानां सभासदामनभिधानेऽयथाभिधाने च पापम्, नियुक्तानान्तु सभ्यानामधर्मप्रवृत्तस्य राज्ञोऽनिवर्त्तनेऽपि नरकम्। प्रयत्नादप्यनिवर्तमाने तस्मिन्नप्रियोक्तावपि न दोष इति स्थितम् ।
१ ग - न धम्मार्थवर्तिनीम् ।
For Private And Personal Use Only