________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ सम्योपदेशः । तत्र सभ्यानां कश्चिद्दोषोऽनियुक्त-सामाजिक-साधारणः कश्चिदसाधारण इति मिताक्षराकारः। तत्राद्यो यथा मनु-नारदौ,सभा वा न प्रवेष्टव्यं वक्तव्यं वा समञ्जसम् ।
अब्रुवन् विब्रुवन् वापि नरो भवति किल्विषो ॥ अत्र च न प्रवेष्टव्यमिति सामान्याभिधाने विशेषजिज्ञासायां सभामित्युपतिष्ठते एवमपि 'पदसंस्कारस्याभियुक्तरिष्टत्वात् दिगुरेकवचनमिति ज्ञापकात् यथायुक्तमर्थं परीक्षितुमित्यादौ यथा वा शक्यं श्वमांसादिभिरपि तत् प्रतिहन्तुमिति महाभाष्यफक्किकायाम् ।
कुल्लूकभट्टस्तु सभामुद्दिश्येत्यध्याहारमाह । मेधातिथिना तु सभा वा न प्रवेष्टव्येति ऋज्वेव पठितम्। मिताक्षराप्येवमेव । मनु-नारद-हारोत-बौधायनाः,
पादोऽधर्मस्य कर्तारं पादः साक्षिणमृच्छति । पादः सभासदः सर्वान् पादो राजानमृच्छति ॥ सभासदः अधर्मप्रवृत्त्यनिवारकानिति कुन्नुकभट्टः ।
यत्र राजानुमत्या व्यवहारस्य दुईष्टत्वं तचैव तदोष इति मिताक्षराकारः। पादोऽधर्मस्येत्यादौ तत्तुल्यपापान्तरो
१ क पदजन्यसंस्कार-।
For Private And Personal Use Only