________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डविवेकः ।
कुलादिभ्योऽधिकाः सभ्यास्तेभ्योऽध्यक्षः स्मृतोऽधिकः। कुलानि श्रेण्यश्चैव गणास्त्वधिकृतो नृपः ॥ प्रतिष्ठा व्यवहाराणां गुर्वेभ्यस्वत्तरोत्तरम् ॥ करणं सभा, साहसन्यायः साहसविषयो न्यायः । कुलं वादिप्रतिवादिनोः स्वकुलं, श्रेणिः शिल्पिबणिगादिसमूहः। एकधर्मप्रहत्ता बणि कृषौबलादय इति कल्पतरूः। गणो विप्रसमूहः, धर्मार्थकामप्रधानानामनियतहत्तौनां सङ्घो वा। नियुक्तकोऽत्र सभ्यः । अध्यक्षः प्रादिवाकः ।
कुलानौत्यादिश्लोके गणाधिकृतयोर्मध्ये सभ्यो द्रष्टव्यः । एषामपि साहसविषये संशये राजैव निर्णयेदिति तात्पर्य्यम् । वृहस्पति-कात्यायनौ,
तपस्विनान्त कार्याणि चैविद्यैरेव कारयेत् । माया-योगविदाञ्चैव न स्वयं कोपकारणात् ॥ नारदः,
यत्र सभ्यजनः सर्वः साध्वेतदिति मन्यते । स निःशल्यो विवादः स्यात् सशल्यः स्यादितोऽन्यथा ॥ साध्वेतदिति निर्णयपरं, शल्यमधर्मरूपम् ॥
For Private And Personal Use Only