________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डविवेकः ।
व्यवहारावृपः पश्येदिद्भिाह्मणैः सह । इत्यत्र मिताक्षराकारः,ब्राह्मणैरिति तृतीयादर्शनात्तेषामग्राधान्यं “सह युक्तप्रधाने” इति स्मरणात्। अतश्चादर्शनेऽन्यथादर्शने च राज्ञ एव दोषो न ब्राह्मणानामित्याह ।
अथ कात्यायनः,- यदा कार्यवशाद्राजा न पश्येत् कार्यनिर्णयम् ।
तदा तत्र नियुञ्जौत ब्राह्मणं शास्त्रपारगम् ॥ तदभावे त्वाह,यत्र विप्रो न विहान स्यात् क्षत्रियं तत्र योजयेत् ।
वैश्यं वा धर्मशास्त्रज्ञं न तु शूद्रं कदाचन ॥ मनुः,
यस्य राष्ट्रे प्रकुरुते शूद्रो धर्मविवेचनम् ।
तस्य सौदति तद्राष्ट्र पङ्के गौरिव पश्यतः ॥ व्यासः,दिजान् विहाय यः पश्येत् कार्याणि उपलैः सह ।
तस्य प्रक्षुभ्यते राष्ट्र बलं कोषश्च नश्यति ॥ मनुः,
समाः शचौ च मित्रे च नृपतेः स्यः सभासदः। बृहस्पतिः,
सभ्याधौनः सत्यवादी कर्त्तव्यस्तत् स्वपूरुषः ।
'
Y
'
'
१ ख चार पुरुषः ।
For Private And Personal Use Only