________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दण्डप्रायनोपकरणानि ।
प्रत्यर्थि- सभ्यानयनं स्वाक्षिण्णाच्च स्वपूरुषः । कुर्यादलग्नकं रक्षेदधि- प्रत्यर्थिनौ तथा ॥
****
Acharya Shri Kailassagarsuri Gyanmandir
अथ कात्यायनः,
एकाहह्यहाद्यपेक्षं देशकालाद्यपेक्षया । दूताय साधिते का तेन भक्तं प्रदापयेत् ॥ दूताय वादिनमानीतवते तेन वादिना ।
याज्ञवल्क्यः,
उभयोः प्रतिभूग्रह्यः समर्थः कार्य्यनिर्णये । कार्य्यनिर्णय इति आहिताग्न्यादिपाठात् कार्य्यस्य पूर्वनिपातः, तेन निर्णयकार्य इत्यर्थः ।
तच्च साधितधनदानं दण्डदानञ्च तस्मिन् प्रतिभूरिति प्रतिभवति तत्कार्य्ये तच्च भवतौति प्रतिभूः प्रतिनिधिः ।
कात्यायनः, -
अथ चेत् प्रतिभूर्नास्ति कार्य्ययोगस्य वादिनः । स रक्षितो दिनस्यान्ते दद्याद्दृताय वेतनम् ॥ अथ मनुः,—
व्यवहारान् दिदृक्षुस्तु ब्राह्मणैः सह पार्थिवः । प्रणम्य लोकपालेभ्यः कार्यदर्शनमारभेत् ॥ पार्थिवः पृथिवीपतिः क्षचियादन्योऽपि । महाभारते, -
अर्थिनामुपसन्नानां यस्तु नोपैति दर्शनम् । सुखे प्रसक्तो नृपतिः स तप्येत नृगो यथा ॥ उपसन्नानां निर्णयार्थमुपगतानाम् ।
-
१ घ — भुक्तम् ।
१३
For Private And Personal Use Only