________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सम्यग्दण्ड्गुणाः।
अङ्गिराः,
राजा गुरुय॑मश्चैव शासङ्घर्मेण' युज्यते । कर्ता च मुच्यते पापात् न च पापेन लिप्यते ॥ गुरुरुपदेष्टा पापात् पूर्वकृतात् दण्डनिमित्तौभूतात् । तथाहि,
स गोनो निष्कृति कार्यो दाप्यो वा प्रथमं दमम् । इत्यत्रोक्तदण्डप्रायश्चित्त विकल्पदर्शनात् दण्डेनापि पापं गच्छतोत्याहुरिति।
राजभितिदण्डास्तु कृत्वा पापानि मानवाः । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ इत्यत्र मनुवाक्ये कुल्लकभट्टोऽप्याह दण्डस्यापि प्रायश्चित्तवत् पापक्षये हेतुत्वमिति । अतएव यमस्यापि धर्मयोगः, तत्कर्त्तव्यनिर्वाहात् । अतरवाह नारदः,गुरुभिर्ये न शास्यन्ते राज्ञा वा गूढकिल्विषाः ।
ते नरा यमदण्डेन शास्ता यान्त्यधमां गतिम् ॥ पापेन उदीच्येन दण्डभिया पुनरकरणात् ।
१ ख पुस्तके शासन् धर्मेण । २ क ख पुस्तकहये स गोनवनिष्कृति । ३ घ पुस्तके दण्डप्रायश्चित्तयोः ।
For Private And Personal Use Only