________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डविवेकः।
__ अस्ति च सर्वत्रात्मानं गोपायौतेत्यात्मरक्षणस्य विहितत्वात् तदेव दृष्टं प्रयोजनं तच्चेदन्यथाऽपि सम्भवति तदा तचापि बधोऽदृष्टार्थः स्यादित्येव ।
नारायणेन तु मनुवचनमन्यथा व्याख्यातम् । आततायिनं हननप्रवृत्तं हन्यादेव अङ्गछेदादिरूपेण नत्वत्यन्तम् । अन्यत्र गोब्राह्मणादिति गौतमस्मृतेः।
हन्तुबंधक न कश्चन, ब्रह्महत्यादिकृतमपि तादृशं पापं न भवति । तथाहि प्रायश्चित्तमपि तत्राऽल्यमेव स्मृतिनिबन्धकारैर्निबधमिति। मिताक्षराकारस्याप्यचैव स्वरसः। मेधातिथि-गोविन्दराजौ तु,
आचार्यश्च प्रवक्तारं मातरं पितरं गुरुम् । न हन्याब्राह्मणान् गाश्च सवींश्चैव तपस्विनः॥
इत्याहतुः। अविशेषेण सर्वभूतानां हिंसा निषिद्धा पुनर्वचनमाचार्य्यादौनां मातापित्रादीनामतिनिषेधार्थम् ।
यच्च गुरुं वा इत्यादिकमनुवादः, गुर्वादिकमपि हन्यात् किमुतान्यमिति सोऽस्यैव प्रतिप्रसवः । अथवा,'दरुक्तभाषणमेवाच हिंसा । वाग्भिस्तैस्तैर्जघन्यताम् ।
इतिवचनात्। अथवा प्रतिकूलाचरणे हन्तिप्रयोगो यथा चात्र प्रतिभाति तथा दैतविवेके वक्ष्यामः॥
१ घ - दिक्तभाषणम् ।
For Private And Personal Use Only