________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डविवेकः ।
तत्र दण्डप्रशंसायां मनुः,
तदर्थं सर्वभूतानां गोतारं धर्ममात्मजम् । ब्रह्मतेजोमयं दण्डमसृजत् पूर्वमीश्वरः॥ तस्य सर्वाणि भूतानि स्थावराणि चराणि च । भयानोगाय कल्पन्ते धर्मान्न विचलन्ति च ॥ म राजा पुरुषो दण्डः स नेता शासिता च सः। चतुर्णामाश्रमाणाञ्च धर्मस्य प्रतिभूः स्मृतः ॥ दण्डः शास्ति प्रजाः सा दण्ड एवाभिरक्षति । दण्डः सुप्तेषु जागति दण्डं धर्म विदुर्बुधाः ॥ वदर्थमिति राज्ञो यः प्रजारक्षणाख्यो धर्मस्तदर्थमिति रत्नाकरः। राजार्थमिति नारायणः। युक्तञ्चैतत् राज्ञ एव प्रक्रमात् । धर्म धर्मव्यवस्थापकम् । अभेदोपचार आदरार्थः। आत्मजं पुत्रं, ब्रह्मतेजोमयमिति न पाञ्चभौतिकमपितु हिरण्यगर्भतेजःप्रकृतिकम् । अयमपि स्तुतिवाद आदरार्थः। ईश्वरः प्रजासष्टा राजा प्रकृतिरञ्जनात् । पुरुष इति स एव पुरुषस्ततोऽन्येषां तद्विधेयत्वेन स्त्रौतुल्यत्वादिति मनुटोका। पुरुषः परमपुरुषतुल्यः। प्रजानां हृदिस्थितत्वादिति रत्नाकरः। नेता स्वधर्मप्रापयिता। जागर्त्ति जाग्रतः कार्य चौरादिभयवारणं करोति ॥
१ क ख ७ पुस्तकत्रये दण्डे ।
For Private And Personal Use Only