________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
विवेकः ।
उच्छृङ्खलप्रखलखण्डनपण्डितेन श्रीभैरवेण मिथिला पृथिवीश्वरेण ।
तेनानुकम्प्य सकृदप्यवलोक्यमाना श्रीवर्द्धमानकृतिनोऽस्तु कृतिः कृतार्था ॥ ५ ॥
ज्यायान् गण्डकमिश्रः शङ्कर
वाचस्पतौ च मे गुरवः ।
निखिलनिबन्धसमास
Acharya Shri Kailassagarsuri Gyanmandir
प्रयासमेनं ममाऽनुजानन्तु ॥ ६ ॥
किञ्चालसमनसो ये
विविधनिबन्धावलोकने कृतिनः ।
ते परि पवित्रं कुर्व्वन्तु हसन्तु दुर्जनाः किन्तैः ॥ ७ ॥
नात्रयति 'गुणगन्धा
नोजिते दोषसम्बन्धात् ।
अविदितगुणदोषोऽपि हि
परकृतिरित्येव दुर्जनो ज्वलति ॥ ८ ॥ मन्त्रौ यत्र महार्णवो गुणगुरुः पृथ्वीपतिः पण्डितो रूढाहङ्कतयः पुराणकृतयः सभ्याः श्रुताभ्यासिनः । तत्र क्षुद्रमतेरिमां मम कृतिं कः श्रद्दधौताऽथवा यो यति स तत्र तस्य विभवस्तेनैव स श्लाघ्यते ॥ ८ ॥ दण्डस्यादौ परिकरस्ततः षट् तस्य हेतवः । उक्ता दण्डविवेकेऽस्मिन् परिच्छेदेषु सप्तसु ॥ १० ॥
१ ख गुणबन्धात् 1
For Private And Personal Use Only