________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्ड विवेकः ।
श्रीगणेशाय नमः। पाणिभ्यामुपजातवेपथुतया यत्नेन यः कल्पितो
येन स्वेदजलौघपूरिततया नापेक्षितोऽम्बुग्रहः । सन्ध्यार्थत्वमवेत्य यो मुकुलिते सव्ये करे कम्बुना सादृश्यं गतवान् स पातु शिवयोः सायन्तनोऽर्थ्या
अलिः ॥ १ ॥ साई राधिकया वनेषु विहरन्नस्याः कपोलस्थले
धर्माम्भोविसरं प्रसारिणमपाकत्तुं करेण स्पृशन् । 'तत्र प्रत्युत सात्त्विकाम्बुमिलनादोजायमाने जवादव्याहो विफलप्रयासविकला गोपालरूपो हरिः ॥२॥ कृष्णावतारकुतुकं बहुमन्यमानो
दण्डं वहन्नवति गां पुरुषोत्तमो यः। वाञ्छवसाननुगुणेन गुणेन बवा
भूयः प्रचारयति गां भुवनान्तरेषु ॥ ३ ॥ यः श्रीकुसेनमपनौतसमस्तसेन__मात्मौयसैनिकमिवात्ममते नियुक्त । गौड़ेश्वरप्रतिशरीरमतिप्रतापः
केदाररायमवगच्छति दारतुल्यम् ॥ ४ ॥ १ ग तत्र प्रच्युत-। २ घ पुस्तके टतोय'लोकादारभ्य नवमलोकं यावन्नास्ति ।
For Private And Personal Use Only