SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 8 तत्र मनुः, ཏྭཾ, ཏེ,,, www.kobatirth.org अथ दण्ड्या दण्डे दोषाः । तथा, - दण्ड़विवेकः । --- Acharya Shri Kailassagarsuri Gyanmandir यदि न प्रणयेद्राजा दण्डं दण्ड्येतन्द्रितः । शूले मत्स्यानिवापश्यन् दुर्बलान् बलवत्तराः' ॥ स्वाम्यञ्च न स्यात् कस्मिंश्चित् प्रवर्त्तेताऽधरोत्तरम् ॥ शूल इति । शूले कृत्वा यथा मत्स्याः पच्यन्ते तथा विवशान् दुर्बलान् अपक्ष्यन् तेषां हिंसामकरिष्यन्नित्यर्थः । शूलेन मत्स्यानिति मेधातिथि गोविन्दराजाभ्यां पठितम् । शूले मत्स्यानिवाभिद्युरिति क्वचित् पाठः । सर्व्वच बलवन्तो दुर्बलान् हिंस्युरिति मात्स्यन्यायप्रसङ्गे तात्पर्य्यम् । स्वाम्यञ्च न स्यात् । स्वत्त्वविषयेऽपि पराक्रान्ते यथेष्टविनियोगाभावात्। अधरोत्तरमुत्कर्षापकर्षवैपरीत्यम् । अंशांशं तस्कराद् यस्तु बलिं गृह्णाति पार्थिवः । तस्य प्रक्षुभ्यते राष्ट्रं स्वर्गाच्च परिहीयते ॥ परिहीयते पार्थिव इत्यर्थः । अत्र तस्करानिति प्रक्षोभ हेतूनां पारदारिकादौनामप्युपलक्षणम् । उक्तञ्च कामन्दकौये, - आमुक्तकेशाच्चौरेभ्यः परेभ्यो नृपवल्लभात् । पृथिवीपतिलाभाच्च मानुषं पञ्चधा भयम् ॥ १ च बलवन्नराः । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy