________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सभ्य दण्डः ।
Acharya Shri Kailassagarsuri Gyanmandir
वस्तुतस्तु प्रथमं स्तेयपदं सुवर्णस्तेयपरं महापातकसाहचर्य्यात् । द्वितौयन्तु तदितरपरम् । ब्रह्महत्या - मनुष्यमारणवत् गुर्व्वङ्गनागमन-परदाराभिमर्षणवच्चेति द्रष्टव्यम् ।
कर्त्ता अभियुक्तः ।
३३७
अथ सभ्य - दण्ड: । तत्रोत्कोचमादायान्यथा निर्णयतस्तस्य दण्डः प्रकाशतस्करप्रकरणे दर्शितः ।
उत्कोचग्रहणादिसम्भावनायामाह कात्यायनः, - अनिर्णीते तु यद्यर्थे सम्भाषेत रहोऽर्थिना । 'प्राड्विवाकोऽपि दण्ड्यः स्यात् सभ्यश्चैव न संशयः ॥
अन्यत्र त्वाह,—
स्नेहादज्ञानतो वापि लेोभाद्दा मोहतोऽपि वा । यत्र सभ्योऽन्यथावादौ दण्ड्यो ऽसभ्यः स्मृतो हि सः ॥ दण्डमाह नारदः
रागाल्लोभाद्भयाद्दापि स्मृत्यपेतादिकारिणः । सभ्याः पृथक् पृथक् दण्ड्या विवादाद्दिगुणं धनम् ॥ आदिपदादाचारापेतादिग्रहणम् । अत्र विवादात् विवादपराजयनिमित्ताद्दण्डात् द्विगुणमित्यर्थो न तु विवादास्पदौभूतादिति स्त्रीसङ्ग्रहणादिषु दण्डाभावप्रसङ्गादिति मिताक्षराकारः ।
९ घ ङ पुस्तकदये प्राड्विवाकोऽप्यदण्डाः स्यादिति ।
43
For Private And Personal Use Only