________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३.
दण्डविवेकः।
बृहस्पतिः,___अन्यायवादिनः सभ्या निस्यिाः सर्व एव ते।
एतहादिनोऽतिपौडाकरमहापातकादिविवादविषयं, वृत्तिच्छेदादिविषयं वा। शौलार्थणिनि प्रयोगात्ताच्छोल्यप्रतौतेरभ्यासविषयं वेति न विरोधः । __ इह यत्र सुवर्णादिषु क्षिप्तेषु प्रत्यर्थों सर्वमपहुते। अर्थों च तदेकदेशं विभावयति तत्र यदेकदेशेऽर्थिनः सत्यवादित्वात् प्रदेशान्तरेऽपि मूलमिदं सत्यमिदमसत्यमित्यादिना तर्केण निर्णयः, तदा 'वस्तुतस्तुल्यार्थस्यान्यथावेपि व्यवहारदर्शिनां न दोषः।
तथाहि न्यायाधिगमे तर्कोऽप्युपायस्तेनाभ्युह्य यथास्थानं गमयेदित्युक्त्वागोतमेनोक्तम्,
तस्माद्राजाचार्यावनिन्द्याविति । अथ सन्दिग्धानाञ्च भाषणमिति यदुद्दिष्टम्। तब नारदः,कार्यस्य निर्णयं सम्यक् कृत्वा सत्यन्ततो वदेत् ।
अन्यथा नैव वक्तव्यं वक्ता दिगुणदण्डभाक् ॥ वक्ता अन्यथावक्ता। अत्रापि द्वैगुण्यं विवादविषयापेक्षया, पराजयनिमित्तकदमापेक्षया वा। तथा,- .
सभ्यदोषात्तु यन्त्रष्टं देयं सभ्येन तत्तथा । कार्य्यन्तु कार्य्यिणामेवं निश्चितं न विचालयेत् ॥
१ घ पुस्तके-तदा वस्तुतस्तस्यान्वयस्य ।
For Private And Personal Use Only