________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
व्यवहारविषयदण्डः ।
Acharya Shri Kailassagarsuri Gyanmandir
अथ कात्यायनः, -
श्रतस्त्ववमन्येत यः शक्तो राजशासनम् । तस्य कुर्य्यान्नृपो दण्डं विधिदृष्टेन कर्मणा ॥ हौने कर्म्मणि पञ्चाशन्मध्येऽपि स्यात् शतावरः । गुरुकार्येषु दण्डः स्यान्नित्यं पञ्चशतावरः ॥
अत्र व्यासः,
परानौकहते देशे दुर्भिक्षे व्याधिपीडिते । कुव्र्वीत पुनराह्वानं न तु दण्डं प्रकल्पयेत् ॥
३३५
अथ याज्ञवल्क्यः,
अवध्यं यश्च वध्नाति यश्च वध्यं प्रमुञ्चति । अप्राप्तव्यवहारश्च स दाप्यो दण्डमुत्तमम् ॥
अवध्यं वन्धनानर्हम् । अप्राप्तव्यवहारं व्यवहारार्थमानौतमनिर्व्वाहितव्यवहारश्च । तं न वनौयात्, न मुच्चेत् । तथाविधं वध्नन् मुञ्चन् वा उत्तमसाहसं दण्ड्य इत्यर्थः ।
विष्णुः,
दण्ड्यमुन्मोचयन् दण्डाद्विगुणं दण्डमाहरेत्' । नियुक्तश्चाप्यदण्ड्यानां दण्डकारौ नराधमः ॥
,
दण्डादवरुवस्य यो दण्डस्तस्मात् नियुक्तो राजपुरुषः । लग्नकं रक्षेद र्थिप्रत्यर्थिनामिति वचनात् ।
यश्च दण्डनाधिकृतो दण्डानर्हाद्दण्डत्वेन यावगृह्णाति स तद्दिगुणं दाप्य इत्यर्थः । अवध्योन्मोचने वधदण्डस्य
१ ६ पुस्तके व्यावहेत् ।
For Private And Personal Use Only