SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३२ दण्डविवेकः : अथ व्यवहारविषयदण्डः। तत्र आज्ञासेधव्यतिक्रम इति प्रागुद्दिष्टमपि प्रकरणसङ्गत्या अचोदाहियते। तत्र वृहस्पतिः,यस्याभियोगं कुरुते तथ्येनाशङ्कयापि वा। तमेवासेधयेद्राजा मुद्रया पुरुषेण वा ॥ आसेधयेत् आनयेत्। मुद्रा स्वहस्ताङ्कितं द्रव्यम् । नारदः,वक्तव्येऽर्थे न तिष्ठन्तमुत्क्रोशन्तञ्च तद्वचः । आसेधयेद्दिवादार्थों यावदाह्वानदर्शनम् ॥ न तिष्ठन्तं निर्णयार्थमप्रवर्त्तमानं प्रत्युत वादिवचनमुत्क्रोशन्तम् तिरस्कुवाणं, वादी तावन्निरुन्ध्याद् यावदसौ राज्ञाहयत इत्यर्थः। स चासेधश्चतुर्विधः। तमाह,स्थानासेधः कालकृतः प्रवासात् कर्मणस्तथा । चतुर्विधः स्यादामेधस्तमासिद्धो न लङ्घयेत् ॥ अत्र कल्पतरौ,अदत्वा यद्यस्मात् स्थानाचलसि, यदि भोक्ष्यमे, यदि ग्रामं गच्छसि, यद्यध्ययनं करोषि तदैतावान् तव दण्ड इति स्थानासेधादयो व्याख्याताः । एवमेव पारिजातादयः। १७ पुस्तक वहस्तावित पत्रं । २ घ पुस्तके उत्क्रामन्तञ्च । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy