________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३०
दण्ड विवेकः । तव्यं तु नाष्टिकायार्पयेत्। नाष्टिकेन तद्दनं न रक्षितमिति तस्य दोषः। क्रेचा तदविज्ञाताश्रयात् क्रौतमिति तस्य दोषः। तदेतदोषद्वयं उभयोरप्यईहानिकरम्।
एतच्च स्वामिनोऽनवेक्षया यत्रान्येन द्रव्यमपहृत्य विक्रौयते तहिषयम् तथा चापरिपालनमिति वचनादतो न विरोधः ।
एवञ्च यत्र स्वामिनो मूल्यस्य वा स्वत्त्वे क्रतुवा प्रकाशक्रयादौदार्या नावतरति तद्दिषयं प्रमाणहीनेत्यादिवचनं तेषामभावे राजाज्ञा प्रमाणमिति व्यासवचनसम्बादात् । समेति पुरुषाणां धमाधर्मयोः समन्यूनाधिकभावं निश्चित्येत्यर्थ इति रत्नाकरः। अथ दत्ताप्रदानिके नारदः,
अदत्तन्तु भय-क्रोध-शोक-वेग-रुगन्वितैः । तथोत्कोचपरौहास-व्यत्यासच्छलयोगतः ॥ भयादिपरवशैरुत्कोचादिसम्बन्धेन च यद्दत्तं तददत्तमित्यर्थः। __ अत्र मिताक्षरायामुत्कोचनं' कार्यप्रतिवन्धनिरासार्थमधिकृतेभ्यो दत्तमिति व्याख्यातम् ।
तत्रोत्कोचनमधिकृत्य नारदः,यस्य कार्यस्य सिद्ध्यर्थमुत्कोचा स्यात् प्रतिश्रुता। तस्मिन्नपि त्वसिद्धेऽर्थे न देया स्यात् कथञ्चन ॥
१ क पुस्तके उत्कोचेन ।
२७ पुस्तके [तत्रोत्कोचनमधिकृत्येत्यारभ्य प्रकीर्ण के विवादपदवर्गः। इत्यन्तश्चिहितांशः पतितः ।
For Private And Personal Use Only