________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवाद पदानि ।
३२६
हौनान्नौचात् असम्भावितद्रव्यस्वामिभावात् । वेलाहोने क्रयाहवेलाहौने। तेन होनादसाधोर्दासाद्दा रहो हौनमूल्येन वेलामनाश्रित्य क्रयं कुर्वन् तस्करी भवतीत्यतिदेशात्तद्दण्डप्रापकः। अथ स्वामिनो दण्डमाह याज्ञवल्क्यः,
हृतं प्रनष्टं यो द्रव्यं परहस्तादवाप्नुयात् ।
अनिवेद्य टपे दण्ड्यः स तु षणवतिं पणान् ॥ इदं मम अनेनापहृतमिति राज्ञेऽनिवेदयितुरयं दण्डः। तस्करप्रच्छादनेन राजाज्ञाखण्डनादिति कृत्यसागर-स्मृतिसारौ। एवमेव कल्पतरु-रत्नाकरादिस्वरसः । अथ बृहस्पतिः,प्रमाणहोने वादे तु पुरुषापेक्षया टपः । सम-न्यूनाधिकत्वेन स्वयं कुर्या विनिश्चयम् ॥ वणिग्वौथोपरिगतं विज्ञातं राजपूरुषैः । अविज्ञाताश्रयात् क्रौतं विक्रेता यत्र वा मृतः ॥ स्वामौ दत्वाऽर्द्धमूल्यन्तु प्रगृलौत स्वकं धनम् । अई द्वयोरपहृतं तत्र स्याद्यवहारतः ॥ अविज्ञातक्रयो दोषस्तथा चापरिपालनम् । एतद्दयं समाख्यातं द्रव्यहानिकरं बुधैः ॥ वणिगिति। अविज्ञाताश्रयात् अनिश्चितवासस्थानात् । अयमर्थः-वस्तुतः परकीयमपि द्रव्यं वणिग्वौथोपरिगतं प्रकाशं यः क्रोणति विक्रेतुरविज्ञाताश्रयत्वात्तमानेतुं न शक्नोति स विभावितस्वामिभावान्नाष्टिकादईमूल्यं गृहीत्वा
१ घ पुस्तके स्वयं ।
For Private And Personal Use Only