________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२८
दगडविवेकः ।
कात्यायनीयन्त्वनुवन्धातिशयविषयमिति स्फुटमेव । अथ केतुईण्डमाह बृहस्पतिः,
येन क्रौतन्तु मूल्येन प्रागध्यक्षनिवेदितम् । न तत्र विद्यते दोषः स्तेनः स्यादपधिक्रयात् ॥ अन्तहे बहिर्गामात् निश्यपांश्वसतो जनात् । हौनमूल्यञ्च यत्क्रौतं ज्ञेयो दुष्टः परिक्रयः ॥ असतो जनात् असाधुत्वेन ज्ञातात्। एतद्दाक्यं "स्वामितोऽपि क्रयः कश्चिविरुद्यो भवतीत्यपक्रम्य कृत्यसागरस्मृतिसारयोवतारितं व्याख्यातञ्च । अत्राप्यस्वामिविक्रयवद्यवहारः।
तथाच विष्णुः,यद्यप्रकाशं होनमूल्यञ्च क्रोणीयात्तदा क्रेता विक्रेता च चौरवच्छास्यौ। __ एतत्तु न मनोरमं चौरादिभियापि गोपनस्य धनिकपौडादिनाऽप्यपपत्तेः।
अत एव धर्मकोषे यदि तु क्रेता जानन् क्रोणाति, तदा सोऽपि दण्ड्य इति कृत्वा विष्णुवचनमवतारितम् । अतएवात्र कल्पतरावेष विशेषो न दर्शितः। कामधेनौ रत्नाकरादौ च वचनमेवैतन्न लिखितम् । नारदः,
अथास्यानुमतादासात् क्रोणंस्तदोषभाग् भवेत् । याज्ञवल्क्यः ,
होनाद्रहो हौनमूल्यं वेलाहौने च तस्करः ।
For Private And Personal Use Only