________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवादपदानि ।
३२५
वशिष्ठः,फलपुष्योपगान् पादपान्न हिंस्यात्, कर्षणार्थं वोपहन्यात् गार्हस्थ्याङ्गे च ।।
कर्षणार्थ कृषिहेतुहलाद्यर्थम् । सम्भवासम्भवनिमित्तकविकल्पयरो वाशब्दः । गार्हस्थ्याङ्ग गृहकर्म दृष्टमदृष्टं वा। येन तगृहोपकरणं यज्ञोपकरणञ्च सिध्यति ।
॥ इति प्रकीर्णके मुक्तकवर्गः ॥
अथ विवादपदानि।
अब मनुः,तेषामाद्यमृणादानं निःक्षेपोऽस्वामिविक्रयः । सम्भूय च समुत्यानं दत्तस्यानपकर्म च ॥ वेतनस्यैव चादानं सम्विदश्च व्यतिक्रमः । क्रयविक्रयानुशयो विवादः स्वामिपालयोः ॥ सौमाविवादधर्मश्च पारुष्ये दण्डवाचिके । स्तेयच्च साहसञ्चैव स्त्रीसंग्रहणमेव च ॥ स्त्रीपुंधर्मो विवादश्च द्यूतमाह्वय एव च ।
पदान्यष्टादशैतानि व्यवहारस्थिताविह ॥ अब पारुष्यादीनां स्वातन्त्र्येणोपादानात् सन्निध्यतिक्रमादेः प्रकीर्णकानुप्रवेशाहणादानादावुत्सर्गतोऽपराधा
१ मूले अाह्वानमेव च इति पाठः ।
For Private And Personal Use Only