________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३२४
Acharya Shri Kailassagarsuri Gyanmandir
दण्ड़विवेकः ।
चैत्यश्मशानसोमासु पुण्यस्थाने सुरालये । जातद्रुमाणां द्विगुणो दमो वृक्षे च विश्रुते ॥ गुल्म-गुच्छ-क्षुप-लता-प्रतानौषधिबौरुधाम् । पूर्व्वस्मृतादर्द्धदण्डः स्थानेषूक्तेषु कर्त्तने ॥ hari शाखा अपि प्ररोहन्ति ते प्ररोहिशाखिनो वटादयः। येषां छायादिकमुपभुज्यते ते उपजौव्यदुमा श्राम्रादयः । यतो भागात् शाखा जायन्ते स स्कन्धः । सर्व्वशब्दो मूलपरः । तेषां छेदने विंशतिपणादारभ्योत्तरोत्तरं द्विगुण । दण्डो विंशतिपणञ्चत्वारिंशत्पणेोऽशीतिपण इति यावत् ।
चैत्यमायतनं। विश्रुते पलाशादौ । गुल्मा अनतिदौर्घा लता मालत्यादयः । गुच्छा अवलरूपा असवर्णप्रायाः कुरुण्टकादयः । क्षुपाः दुःशाखाः शाकोटकादयः । लता दीर्घायामिन्यो द्राक्षातिमुक्तकादयः । प्रतानाः काण्डप्ररोहरहिताः सरलायामिन्यः सारिवा प्रभृतयः । ओषध्यः फलपाकान्ताः कदल्यादयः । aloufaan अपि या विविधं प्ररोहन्ति तालकुच्यादयः । स्थानेषु पूर्वोक्तेषु शाखास्कन्धमूलेषु । दण्ड इत्यनुवृत्तौ विष्णुः, -
फलोपगमद्रुमच्छेदौ तूत्तमसाहसम् । पुष्पोपगमद्रुमच्छेदौ मध्यमसाहसम् । वल्लौगुल्मलताच्छेदौ कार्षापणशतम् । तृणच्छेद्येकम् । सर्व्वे च तत्स्वामिनां तदुत्पत्तिम् । एकं कार्षापणम् । तदुत्पत्तिं दद्युरिति शेष इति रत्नाकरः । कामधेनौ तथैव पठितम् ।
१ क सारिश प्रभ्टतयः ।
For Private And Personal Use Only