________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विशिएहस्य नियमातिक्रमदण्डः ।
३२३ प्रव्रज्या चतुराश्रमपरिग्रहरूपा। सा च यद्यपि श्रुतिस्मृतिभ्यां शूद्रस्य नोक्ता तथापि शैवागमोक्तामपि तां गृहीत्वा यस्त्यजति स प्रव्रज्यावसितः। श्रुतिस्मृत्यनुक्ता अपि हि बौद्धादिधमा राज्ञा परिपाल्या एवेति रत्नाकरः। दिगुणो वधार्हस्य पाक्षिको यो दण्डस्तदपेक्षया बोद्धव्यः । याज्ञवल्क्यः,
विप्रत्वेन च शूद्रस्य जीवतोऽष्टशतो दमः। विप्रत्वेन विप्रचिह्नोपवीतादिना । अत्र मिताक्षराकार,
यः शूद्रो भोजनार्थमुपवीतादिब्राह्मणलिङ्गानि धारयति, तस्याष्टशतो दण्डः। श्राइभोजनार्थं पुनब्राह्मणवेशधारिणस्तप्तशलाकया यज्ञोपवीतवन्धनस्थानमालिखेदिति स्मृत्यन्तरोक्तं द्रष्टव्यम्। वृत्त्यर्थन्तु ब्राह्मणलिङ्गधारिणो वध एव "विजातिलिङ्गिनः शूद्रान् घातयेत्" इति मनुस्मरणादित्याह। अथ वृक्षादिच्छेदनदण्डस्तत्र कात्यायनः,वनस्पतीनां सर्वेषामुपभोगो यथा यथा ।
तथा तथा दमः कार्यों हिंसायामिति धारणा ॥ एतदनुक्तविशेषपरम् । इह चास्वामिकेषु वृक्षादिषु वृथाछिन्नेषु दण्डमात्रम् । सस्वामिके तु तत्वामिने तत् प्रतिनिधि-तन्मूल्ययोरेकतरदानमपौति प्रागुक्तमनुसन्धेयम् । याज्ञवल्क्यः,प्ररोहिशाखिनां शाखा-स्कन्ध-सर्व-विदारणे । उपजीव्यदुमाणाञ्च विंशतेKिगुणो दमः ॥
For Private And Personal Use Only