________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२६
दण्डविवेकः।
नाधिक्यादपहूवादिकमपेक्ष्य दोषत्वादतिशयेन लोकानामुद्देगाभावाचास्वामिविक्रयादिमात्रमचोदाहियते। तत्र मनुः,विक्रौणौते परस्य स्वं योऽस्वामी स्वाम्यसम्मतः । न तन्नयेत साक्ष्यन्तु स्तेनमस्तेनमानिनम् ॥ अवहार्यो भवेच्चैव सान्वयः षट्शतं दमम् । निरन्वयोऽनपसरः प्राप्तः स्यान्चौरकिल्विषम् ॥ अनेन विधिना शास्यः कुर्वन्नस्वामिविक्रयम् ।
अज्ञानाद् ज्ञानपूर्वन्तु चौरवद्दण्डमर्हति ॥ अवहरो दानमिति यावत् तेनावहार्यो दाप्य इत्यर्थः। एवमेव लक्ष्मौधर-ग्रहेश्वर-कुल्लक हरिनाथाः। अवहार्यो दण्ड्य इति नारायण-चण्डेश्वरौ। तन्न दममित्यनेनानन्वयात् । सान्वयः स्वामिसम्बन्धी। तव्ययोग्यसम्बन्धाभाववान्। यथा जीवति तस्मिन् विभक्तभ्राचादिः। निरन्वयः—अत्यन्तोदासीनः सम्बन्ध्याभासेनापि रहितः । सान्वयोऽप्यनपसरो अदेशे अकाले च विक्रयं कुर्वन्नित्यर्थ इति नारायणः ।
अपसरत्यनेन स्वामिसकाशदन्यमित्यपसरः क्रयप्रतिग्रहादिः स यस्य नास्ति सोऽनपसर इति कल्पतरुकारः । एवमेव प्राञ्चो भागरिमेधातिथिप्रभृतयः, अर्वाञ्चश्च
१ क पुस्तके मनुफ़्लोकादनन्तरं वचनमिदं विवादनिर्गा ये व्याख्यातमन्यच्चैतत्सम्बन्धि तत्रैवोक्तमिह तु सम्बन्धविच्छेदप्रदर्शनार्थं लिखितम् ।
एवं पाठादनन्तरं दत्ताप्रदानिके नारदः सुतरां तत्र पुस्तके इतःपरं क्रेटदण्डप्रकरणमेव यावन्नास्ति ।
For Private And Personal Use Only