________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डविवेकः।
याज्ञवल्क्यः,
क्षेत्र-वेश्म-ग्राम-वन-विवौत खलदाहकाः। राजपत्न्यभिगामौ च दग्धव्यास्तु कटाग्निना ॥ क्षेत्रं पक्वफलशस्योपेतमिति मिताक्षरा। वनमटवी, कौड़ावनं वा। विवीतं गवाधुपयोगार्थ रक्षितयवसो भूप्रदेशः । कटो वौरणमयः । अथ राजकोषापहारादौ कात्यायनः,
राजार्थमोषकाश्चैव प्राप्नुयुर्विविधं वधम् । मनुः;
रानः कोषापहन्तंश्च प्रतिकूलेववस्थितान् । घातयेदिविधैर्दण्डैररोणाञ्चोपजापकान् ॥ कोषो राज्ञोऽर्थसञ्चयः । राज्ञः प्रतिकूलेष्ववस्थितान् तदाज्ञाव्याघातकारिण इति मनुटौका। उपजापकान् राष्ट्रभेदकानिति रत्नाकरः। शत्रूणां राज्ञा सह वैर बुद्धिकारिण इति कुल्लकभट्टः। अरौणां सम्बन्धिन उपजापकान् स्वप्रकृतिभेदकानिति नारायणः ।
एतद्दचनं मिताक्षराकृता कोषापहरणादौ वध एवेति कृत्वावतारितं व्याख्यातच विविधैः सर्वस्वापहाराङ्गच्छेद वधरूपैरित्यर्थ इति ।
मनुटौकायान्तु अपराधापेक्षया कर-जिह्वाच्छेदनादिभिरित्युक्तम् ।
१ घ भेदबुद्धि—।
For Private And Personal Use Only