________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साहसदण्डः।
३१५
अत्र मिताक्षरा, अपरवधार्थमन्नपानादिषु विषदानम् । दाहार्थं ग्रामादिषु अग्निदानम्। गोभिरिति अदान्तैबलौवई प्रवाह्य मारयेदित्यर्थ इति ।
यथोक्तायाः स्त्रिया यदा गर्भो न भवति तदा शिलां वडा जले प्रवेशनम् । अन्यथा कादिछेदपूर्वको वधः ।
विषामिदामिति वाक्यभेदादपौनरुक्त्यम्। प्रथमे विषानिदानस्य पतिव्यतिरिक्तमरणोद्देश्यकत्वं विवक्षितं विषाग्निदां पुरुषनौमिति निर्देशात्। द्वितीये पत्यादिमरणोद्देश्यकत्वं विषाग्निदां पत्यादिप्रमापणौमिति निर्देशात् । उभयत्र हेतु-हेतुमद्भावेनान्वयस्यापेक्षितत्वादिति प्रतिभाति ।
मिताक्षरायान्तु प्रथमे विषाग्निदामित्यत्र विग्रदृष्टामिति पठितं व्याख्यातञ्च विशेषतः प्रदृष्टामिति ।
अब विषाग्निदामित्यादौ लिङ्गं न विवक्षितम् । अतः पुरुषस्याप्येष दण्डः। तेन विषादिना रसद्रव्यदूषणे शारीरोऽङ्गछेदो वेति शङ्खलिखितयोः सामान्याभिधानं घटत इति प्रतिभाति। यमः,उल्कादिदायकाश्चैव घातकाश्चोपघातकाः। स्वशरीरेण दण्ड्याः स्युनरा थाह प्रजापतिः ॥ निषिद्धब्राह्मणादौतरविषयमिदम्। स्वशरीरेण दण्डोऽप्यपराधानुरूपो विवक्षित इति रत्नाकरः।
युक्तञ्चैतत् मनुष्याणां पशूनाञ्चेत्यादिदण्डपारुष्यप्रकरणोक्त-मनुवचनसंवादात् ।
For Private And Personal Use Only