SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir साहसदण्डः । अथ तडागादिभेदादौ मनुः,यस्तु पूर्वनिविष्टस्य तडागस्योदकं हरेत् । आगमच्चाप्यपां भिन्द्यात् स दाप्यः पूर्वसाहसम् ॥ तडागभेदकं हन्यादप्सु शुद्धवधेन वा। तचापि प्रतिसंकुर्यात् दद्याच्चोत्तमसाहसम् ॥ पूर्वनिविष्टस्य पूर्वस्थितस्य स्नानपानावपयुक्तस्येति यावत्। हरेदिति स्वसमौपतडागं नयेदित्यर्थ इति नारायणः। आगमोऽत्र तडागपूरणीनामपां प्रवेशमार्गः। भिन्दादित्यच वन्ध्यादिति मनुटौकायां कुल्लकभट्टेन पठितम्। तडागभेदकं सेतुभेदादिना कृत्स्न-तडागजलनाशकमिति तेनैव व्याख्यातम् । नारायणेन तु तडागभेदकं तडागबहिर्जलनिःसारणमिति वदता कृत्स्नत्वं न विवक्षितम् । अप्सु मज्जनेनेति शेषः। शुद्धवधेन जलादन्यत्र। गङ्गातीरत्वादिति रत्नाकरः। नारायणेन शुद्धवधः शिरश्छेदः, यत्वङ्गुलौकरच्छेदादिनावधः स दुःखहेतुत्वादशुद्ध इत्युक्तम् ।। एतत् कामकृते। अकामकृते तु विगुणीभूतं तडागादि सम्यविधाय उत्तमसाहसं दद्यादिति व्याख्यातम् । ___ तच्चापौत्यच तहापौति पठित्वा कुल्लूकेन व्रतं यद्दा यदि तडागं संस्कात्तदोत्तमसाहसो दण्ड इति । शारीरोऽङ्गछेदो वेत्यनुवृत्तौ शङ्खलिखितौवापौतडागोदपानभेदे। १ क निःसरणम्। २ क नालौवन्धादिनेति । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy