________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१२
दण्डविवेकः।
सर्वज्ञत्वाह प्रतिमाऽत्र मनुष्यप्रतिकृतिर्देवप्रतिमासु वध एव कोष्ठागारेत्यादिना तदायतनभेद एव तस्योक्तरिति। तदेतद्वाक्यस्य चौर्यपरत्वादनादेयम् । प्रतिकुर्यात् पूर्ववत् संस्कुर्यात्। कात्यायनः,
हरेद्भिन्द्यादहेदापि देवानां प्रतिमा यदि।
तद्ग्रहञ्चैव यो भिन्द्यात् प्राप्नुयात् पूर्वसाहसम् ॥ विष्णः,
प्रतिमाभेदकश्चोत्तमसाहसं दण्ड्यः । शवलिखितौ,प्रतिमाराम-कूप-संक्रम-ध्वज-सेतु-निपानभङ्गेषु तत्समुत्थापनं प्रतिसंस्कारः, अष्टशतञ्च दण्डः।
निपानं गवादीनां जलपानार्थं कूपसमौपकृतो जलाधारः। सर्वभङ्गे समुत्थापनं तज्जातीयस्य करणम् । एकदेशभङ्ग तस्यैव संस्कारः।
हन्यादित्यनुवृत्तौ विष्णः,-सेतुभेदकृतश्च । याज्ञवल्क्यः,
सेतुभेदकरञ्चाशु शिलां वड्वा प्रवेशयेत् । अत्र प्रतिमाभङ्गे तदुत्कर्षापकर्षतारतम्यात् तद्भञ्जकस्य धनिकाधनिकत्वाभ्याञ्चोत्तमादिसाहसदण्डः पणशतात्मकदण्डश्च व्यवस्थाप्यः ।
सेतुभङ्गे तु यद्यसावधिकं तद्भङ्ग कुर्यात् यथोक्तो वधः । अन्यत्र शवोक्तो दण्ड इति व्यवस्था।
For Private And Personal Use Only