________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साहसदण्डः।
३११
अथ अविक्रय्य-विक्रये नारदः,
अविक्रयाणि-विक्रौणन् ब्राह्मणः प्रच्युतः पथः । मार्गे पुनरवस्थाप्यो राज्ञा दण्डेन भूयसा ॥ यद्यपि,
वैश्यवृत्तावविक्रेयं ब्राह्मणस्य पयो दधि। सृतं मधु मधूच्छिष्टं लाक्षा-क्षार-वसा-रसम् ॥ मांसौदनं तिलं क्षौमं सोम-पुष्य-फलोपलाः । मनुष्यविषशस्त्राम्बु-लवणापूपवौरुधः ॥ शण-कौशेय चमास्थि-कुतपैकशफा मृगाः । उदश्वित्केश पिण्याक पाकाद्यौषधयस्तथा ॥ एवमाद्यभिधाय नारदेनैतदक्तम् तथाप्यन्यानि ग्राह्याणि तुल्ययोगक्षेमत्वात् ।
अत एव व्याख्यातं चण्डेश्वरेण-अविक्रेयाणि-धर्मशास्त्रेषु प्रतिषिद्धविक्रयाणौति। भूयसा उत्तमसाहसेन अविक्रेयस्य विक्रयो चोत्तमसाहसं दण्ड्य इति विष्णुसंवादात् । अथ संक्रमादिभेदे मनुः,संक्रमध्वजयष्टीनां प्रतिमानाच्च भेदकः । प्रतिकुच्चि तत् सव्वं दद्यात् पञ्चशतानि च ॥ संक्रमो जलोपरिगमनोचितकाष्ठादिवन्धः। साक इति प्रसिद्धः। ध्वजो राजहारदेवतायतनादिचिह्नम् । यष्टिहट्टनागायतनादियष्टिः । पुष्करिण्यादियष्टिरितिमनुटौकायां कुल्लूकभट्टः । ग्रामादिपताकायष्टिरिति नारायणः । प्रतिमा देवताप्रतिकृतिः ।
For Private And Personal Use Only