SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir साहसमाह । ३०३ तथा सवोक्तं दासौगर्मविनाशेऽत्र पणशतावबोधात्, ब्राह्मणौगर्भवधे सर्वस्वहरणावबोधात् शस्त्रावपाते गर्भस्य घातने चोत्तमो दमः । इति याज्ञवल्क्यवचने तदन्यगर्भघातो विवक्षित इति । मिताक्षरायामपि दासी ब्राह्मणौगर्भव्यतिरेकेणेति शेषमन्तर्भाव्य वचनमिदमाख्यातम् । तत्र ब्राह्मणीगर्भवधे सर्वस्वहरणं यद्यपि शृङ्गग्राहिकतया न क्वचिदतं तथाप्यौचित्यादेव तत्र द्रष्टव्यम् । यद्यपि मिताक्षरायां हत्वा गर्ममविज्ञातमित्यत्र ब्रह्महत्यातिदेशं वक्ष्यतीत्यत्रोक्तं तदपि तदभिप्रायकमिति प्रतिभाति । इह च प्रहारस्य करणत्वमपेक्षितं शस्त्रावपातस्य सनिधिश्रुतत्वात्। परगावपरस्यापि तस्य प्रकृतेरनन्वयात्। उपस्थितत्वात् वचनान्तरसंवादाच्च । यथाहोशनाः, परिक्लेशेन पूर्वः स्याझैषज्येन तु मध्यमः । प्रहारेण तु गर्भस्य पातने दण्ड उत्तमः ॥ परिक्लेशेन आयासेन गर्भस्येत्यन्वयः। भैषज्येन गर्भस्य पातने इति सम्बन्धः । विष्णुः,पितृपुत्राचार्ययाज्यविजामन्योन्यापतितत्यागौ। न च तान् जह्यात् । तान् पतितानिति शेषः। त्यागो विहितसत्काराद्यनाचरणम् । अत्यागश्च निषिदसम्भाषणाद्याचरणम् । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy