________________
Shri Mahavir Jain Aradhana Kendra
३०२
दण्ड़विवेकः ।
विष्णुना तु पश्रूनां पुंस्त्वोपघातौति सामान्येनोक्तम् । व्याख्यातञ्च तच रत्नाकरकता पुंस्त्वोपघातो गुदच्छेद इति ।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधारणपलापौ अपरसाधारणद्रव्ये निष्कम्पवञ्चकः । इह विकुष्टस्यानभिधावतः शतदण्डोऽयमाक्रोशकस्य घाताद्यभावे, तत्सत्त्वे तदनुसारौ दण्ड इत्याह ।
-
विष्णुः,
एकं बहूनां निघ्नतां प्रत्येकस्योक्तदण्डाद्दिगुणः । उत्क्रोशन्तमनभिधावतां तत्समीपवर्त्तिनाञ्च।
द्विगुण घातकदण्डापेक्षया । तथा चाण्डालस्य शतदण्डोऽकामकृते स्पर्शे ।
www
अन्यच विष्णुः,
अस्पृश्यः कामचारेण अस्पृश्यान् स्पृशन् वध्यः । रजस्वलां शिफाभिस्ताडयेत् ।
रजस्वलां स्पृशन्तौमिति शेषः । शिफा वृक्षनेत्रम् । तत्रप्रभवया रज्वा प्रहरेदित्यर्थः । तथा शूद्रादेः प्रतिग्रहादेरनभ्यासे शतदण्डः ।
अभ्यासे त्वाह मनुः —
यो लाभादधमो जात्या जौवेदुत्कृष्टकर्म्मभिः । तं राजा निर्धनं कृत्वा क्षिप्रमेव प्रवासयेत् ॥ अत्र तु जात्या अधमो वैश्यादिः । उत्कृष्टस्य क्षत्रियादेरसाधारणकर्म्मणा जीवेत् तं धनहीनं कृत्वा स्वराष्ट्रानिःसारयेदित्यर्थ इति हलायुधः । एवमेव रत्नाकरः ।
१ क ाङ्गदः ।
For Private And Personal Use Only