________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साहसमाह।
३०१
क्षतिः किञ्चिन्नाशः । भङ्गोऽईनाशः। अवमईः सर्वनाशः । अत्र अल्पाघातेन यदनुपयुक्तं भवति तन्महामूल्यं स्फटिकादिद्रव्यं विवक्षितम्। तेन सर्वच दण्डसाम्यं घटते। हलायुधोऽप्याह,
क्षतादौनां लघुगुरुभावेऽपि दण्डसाम्यं द्रव्यविषयाविषयतया समर्थनीयमिति । द्रव्यभागिति।
क्षतादिकर्ता एषामपकारकोऽनिष्टकृत् । हलायुधस्तु एषां नोपकारं यः करोतोत्याह । मिश्रस्तु आकारस्य नेति पठित्वा एषामनाहायक इति व्याख्यातम् । स्वच्छन्दविधवागामौ नियोगाभावेऽपि तहामी। विषणः,चौराद्याक्रान्ते रक्षार्थमाइतो नाभिधावकः सत्वरं तदसन्निधिगामौ।
यदाह हलायुधः-शक्तः सन् यो न धावतौति । मित्रैस्तु अनभिधायक इति पठित्वा प्रतिवचनाप्रदातेति व्याख्यातम् ।
उत्तमान् ब्राह्मणादौन्। शूद्रप्रव्रजितानां दिगम्बरादौनाम् । अयुक्तं शपथं स्वमातरं गृह्णामौत्याकारम् । अवानियुक्तः शपथकारोति विष्णूक्तमपि ग्राह्यम्। तस्याप्ययुक्तत्वात् । अयोग्यः शूद्रादिः। योग्यं कर्म प्रतिग्रहादि। तेन प्रतिग्रहाद्ययोग्यः प्रतिग्रहादिकारीत्यर्थः ।
वृक्षेति पुंस्वस्य फलप्रसवशक्तरौषधादिप्रयोगेण प्रतिघातकः। षो वलौवईः। पशूनां क्षुद्रता हस्याद्यपेक्षया।
For Private And Personal Use Only