________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डविवेकः।
अथ पूज्यातिक्रमादौ षोडशके याज्ञवल्क्यः,'अर्ध्याक्रोशतिकमकृद्धाभा-प्रहारदः । सन्दिष्टस्याप्रदाता च समुद्र-गृहभेदकः ॥ सामन्तकुलिकादौनामपकारस्य कारकः । पञ्चाशत्पणिको दण्ड एषामिति विनिश्चयः ॥ स्वच्छन्दविधवागामौ विक्रुष्टोऽनभिधावकः । अकारणे च विक्रोष्टा चण्डालश्चोत्तमान् स्पृशन् ॥ शूद्रप्रवजितानाञ्च दैवे पिये च भोजकः । अयुक्तं शपथं कुर्वन्नयोग्यायोग्यकर्मकृत् ॥ वृक्ष-क्षुद्र-पशूनाञ्च पुंस्त्वस्य प्रतिघातकः । साधारणस्यापलापौ च दासौगर्मविनाशकः ॥ पितापुवस्वसभाव-दम्पत्याचार्यशिष्यकाः।
एषामपतितान्योन्यत्यागौ च शतदण्डभाक् ॥ अर्घ्य अहिः, आचार्यादिः। अतिक्रम आज्ञालवनम् । प्रहारस्ताडनम्। सन्दिष्टस्य प्रेषितस्य द्रव्यस्य प्रतिश्रुतस्येति मिताक्षरा। समुद्रगृहभेदको मुद्रितगृहमुद्राभेदकोऽनियुक्त इति शेषः। सामन्ताः स्वगृहक्षेत्रादिस्थायिनः। कुलिकाः कुलजाताः। आदिशब्दादन्येऽपि स्वग्रामोद्भताः स्वदेशोभताश्च गृह्यन्ते। अथ कुद्यभिन्नद्रव्याभिघातादौ कात्यायनः,क्षतिर्भङ्गोऽवमर्दो वा कुर्याद्रव्येन यो नरः। प्राप्नुयात् साहसं पूचे द्रव्यभाक् स्वाम्युदाहृतः ॥
१ घ ७ पुस्तकहये यायाक्रोश ।
For Private And Personal Use Only