________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साहसमाह।
२६६
दाप्याः। कुद्यस्य पुनःसम्यादनार्थञ्च धनं स्वामिने दद्यादित्युक्तम् ।
हलायुधोऽप्याह,कुद्याभिघातमात्रे पञ्चपणाः, विदारणे दशपणाः, द्वैधीकरणे विंशतिः। अवपातने तु समुच्चित एवायं दण्डः । अभिहतादिदानञ्च स्वामिने सर्वत्रेति।
युक्तच्चैतत् नैयायिकत्वात् । कामधेन्वादावपि तद्ययमिति पाठः। कात्यायनः,प्राकारं भेदयेद्यस्तु पातयेच्छातयेत वा।
वनौयादथवा मार्ग प्राप्नुयात् पूर्वसाहसम् ॥ प्राकारः पाषाणेष्टकादिकृता इतिः । विष्णुः,गृहकुद्यादिभेत्ता मध्यमसाहसम् । तच्च योजयेत् । मनुः,प्राकारस्यावभेत्तारं परिखाणाञ्च पूरकम् ।
हाराणाञ्चैव भेत्तारं क्षिप्रमेव प्रमापयेत् ॥ हाराणां दारमार्गादौनामिति नारायणः । अत्र प्रमापयेदित्यत्र मनुटीकायां प्रवासयेदिति कुल्लकभट्टेन पठितम् । देशान्निवासयेदिति च व्याख्यातम् ।
प्राकारभेदस्याल्यानल्पभावभेदेन दण्डव्यवस्था। भिन्नप्रतिसंस्कारश्च । गृहकुद्यादिवदवापि द्रष्टव्यो न्यायसाम्यात् ।
For Private And Personal Use Only