________________
Shri Mahavir Jain Aradhana Kendra
२६८
www.kobatirth.org
दण्ड़विवेकः ।
पणशतं दण्ड्य इत्यनुषङ्गः ।
कात्यायनः,
Acharya Shri Kailassagarsuri Gyanmandir
तडागोद्यानतीर्थानि योऽमेध्येन विनाशयेत् । अमेध्यं शोधयित्वा तु दण्डयेत् पूर्व्वसाहसम् ॥ अथ गृहकुड्यादिभेदे विष्णुः — दण्डानुवृत्तौ । गृहकुड्याद्युपभेत्ता मध्यमसाहसं तच्च योजयेत् । तद्गृहकुड्यादि योजयेत् प्रतिसंस्कुर्य्यात् भेदक इत्यर्थात् । एतच्च गृहसहितकुड्यादिगतप्रौढविदारणविषयम् ।
अन्यच याज्ञवल्क्यः,
अभिघाते तथा भेदे छेदे कुड्यावघातने' । पणन्दण्ड्यः पञ्चदश विंशतिं तद्दयं यथा ॥ कुद्यस्याभिघातो बन्धनशिथिलौकरणम् । तच पञ्चपणा दण्डः । भेदः क्वापि बन्धनादिविघटनं, तत्र दशपणाः । छेदो द्वैधीकरणम् । तच विंशतिपणाः । अवघात उक्तेभ्योऽधिको विमर्हः । तच चत्वारिंशत्पणा इत्यर्थः, इति रत्नाकरः । एवमेव मिश्राः ।
――
मिताक्षरायान्तु कुद्यावघातन इत्यत्र कुद्दालपातन इति तयमित्यच तद्ययमिति च पठितम् ।
व्याख्यातञ्च । कुद्दालादिना कुड्याभिघाते विदारणे द्वैधकरणे च यथाक्रमं पञ्चपणो दशपणो विंशतिपणश्च दण्डः । कुड्यस्यापासने पुनरेते त्रयो दण्डाः समुचिता
१ क्वचित् व्यवपातने इति पाठः ।
For Private And Personal Use Only