________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
साहसमाह ।
Acharya Shri Kailassagarsuri Gyanmandir
—
तथा हि विषाक्ता लौहमयी शलाका कच्छपिका शृङ्गाटिका प्रच्छन्नं शूलगर्भं गर्त्तम् विषाक्तं सर्पिः पयो बेत्यादिप्राणापहारव्याप्तम् । अव्याप्तावपि प्रयोक्तुः परजिघांसां गमयति ।
अत एव यत्र प्रयुक्तैरेतैः परस्य प्राणवधस्तत्र प्रयोक्तुरपि शारौरो मारणरूपो दण्डः । यच तु पौडातिशयमाचं तचाङ्गछेद इति विकल्पो घटते ।
एवञ्च सर्पादेः प्राणहरत्वेऽपि तत्प्रक्षेप्तर्जिघांसावगमेऽपि यत्र प्रक्षिप्तस्य तस्यापसरणात् पौडाभावस्तत्र याज्ञवल्क्योक्तो दण्ड इति द्रष्टव्यम् ।
अथ मार्गाद्युपघाते मनुः -
समुत्सृजेद्राजमार्गे यस्त्वमेध्यमलादिकम् ।
स द्दौ कार्षापणौ दण्ड्योऽमेध्यञ्चाशु शोधयेत् ॥ राजमार्गः कात्यायनेनोक्तः, -
२६७
सर्व्वे जानपदा येन प्रयान्ति सचतुष्पदाः । अनिषिद्धा यथाकामं राजमार्गः स उच्यते ॥
अमेध्यं पुरौषमिति मनुटौका । अनापदि श्रार्त्त्यभावे ।
अस्यापवादमाह,
आपत्कृते यथा वृद्धो गर्भिणौ बाल एव वा । परिभाषणमर्हन्ति तच शोध्यमिति स्थितिः ॥
परिभाषणं मा पुनः कृत्यमिति वाग्दमम् । विष्णुः,—
पथ्युद्यान उदकसमौपे अशुच्युत्करादित्यागे पणशतम् ।
तच्चापास्येत |
For Private And Personal Use Only