________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६६
दण्डविवेकः ।
कृतत्वे दण्डाधिक्यमित्येवंपरत्वात् बलं विनापि साहसप्रयोगोऽस्तीत्येवं परत्वाच्च । __ अस्य च बलं विनाऽपवारितकेन यानि दृष्टचेष्टितानि तेषां गौणं साहसत्वमभिधाय तेष्वपि यथोक्तदण्डप्राप्त्यर्थत्वात्। __ अत एव तैस्तैषिभिस्तानि तानि वचनानि साहसप्रकरणे पठितानि। तदनुसारिषु च कामधेन्वादिनिबन्धेषु तवैवावतारितानि। केवलमस्माभिः प्रकरणभेदप्रतिज्ञानादिभाजकोपाधिभेदसम्वादनाय प्रकौर्णप्रकरणे संगृहीतानि। तब गृहे कण्टकादिक्षेपे याज्ञवल्क्यः,
दुखोत्यादि गृहे द्रव्यं क्षिपन् प्राणहरन्तथा । षोडशाद्यः पणान् दण्ड्यो द्वितीयो मध्यमं दमम् ॥ गृहे परकीये, दुःखोत्यादि कण्टकादि, प्राणहरं सर्यादि। दण्ड इत्यनुवृत्तौ विष्णुः
गृहे पौड़ाकरं द्रव्यं प्रक्षिपन् पणशतम् । पौडातारतम्यादत्र व्यवस्था । इह गृहपदेन यत्र विश्रब्धं वर्तमानस्य कण्टकादिना वेधासम्भवस्तादृशं वादिकमप्युपलक्ष्यते।
यत्तु शारीरोऽङ्गछेदो वेत्यनुत्तौ मार्ग-रसद्रव्यदूषण इति शवलिखिताभ्यामुक्तम् । तत्र मार्गदूषणं तीक्ष्णशलाकादिना रसद्रव्यदूषणं विषादिनेति रत्नाकरकृता व्याख्यातमतो दण्डगौरवं घटते ।
For Private And Personal Use Only