________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
साहसमाह ।
Acharya Shri Kailassagarsuri Gyanmandir
२६५
अस्मादेव विशेषदण्डविधानात् प्रथमसाहसादिसामान्यदण्डविधानमपहार व्यतिरिक्तविषयमिति गम्यत इति मिताक्षराकारः ।
वृहस्पतिः -
हर्त्ता च घातनौयः स्यात् प्रसङ्गविनिवृत्तये । अन्य' दण्डा दिनानुपशाम्यतोऽभ्यासविषयमिदम् । मनुः,—
द्रव्याणि हिंसेद्यो यस्य ज्ञानतोऽज्ञानतोऽपि वा । स तस्योत्पादयेत्तुष्टिं राज्ञे दद्याच्च तत्समम् ॥ तुष्टिं हिंसितप्रतिसंस्कारादिना । अव ज्ञानतोऽज्ञानतो वेति तुष्ट्युत्पादनापेक्षयोक्तम् । दण्डस्तु ज्ञानतो नाशितमूल्यसमः | अज्ञानतस्तदर्द्धमिति नारायणेनोक्तम् ।
तथाच,
चर्म्मचार्म्मिकभाण्डेषु काष्ठलेाष्ट्रमयेषु च । मूल्यात्पञ्चगुणो दण्डः पुष्यमूलफलेषु च ॥ चार्मिकमुपानत्पानपाचादि । काष्ठमयं मानपात्रादि । लेाष्ट्रमयं कुम्भादि । प्रथमं चर्म्मपदं स्फुटार्थ - मिति रत्नाकरः ।
सर्व्वचात्र साहसिनो गुणवत्त्वागुणवत्त्वाभ्यां श्रव्यत्वदरिद्रत्वाभ्याञ्च विषयस्य वैशिष्ट्या वैशिष्ट्याभ्यामपराधस्य गौरवलाघवाभ्याश्च व्यवस्था ।
नन्वेवमदूषयितुमवमतानुवादो व्यर्थः । न व्यर्थः — कामं स्तेयादिकं साहसं किन्तु तस्यापि वलदर्पाभिष्टम्भोपाधि
१ ङ अर्थ दण्डादिना, ग व्यर्थ दण्डादिना इति पाठः ।
For Private And Personal Use Only